वांछित मन्त्र चुनें

आ॒शुस्त्रि॒वृद्भा॒न्तः प॑ञ्चद॒शो व्यो॑मा सप्तद॒शो ध॒रुण॑ऽ एकवि॒ꣳशः प्रतू॑र्त्तिरष्टाद॒शस्तपो॑ नवद॒शो᳖ऽभीव॒र्त्तः स॑वि॒ꣳशो वर्चो॑ द्वावि॒ꣳशः स॒म्भर॑णस्त्रयोवि॒ꣳशो योनि॑श्चतुर्वि॒ꣳशो गर्भाः॑ पञ्चवि॒ꣳशऽ ओज॑स्त्रिण॒वः क्रतु॑रेकत्रि॒ꣳशः प्र॑ति॒ष्ठा त्र॑यस्त्रि॒ꣳशो ब्र॒ध्नस्य॑ वि॒ष्टपं॑ चतुस्त्रि॒ꣳशो नाकः॑ षट्त्रि॒ꣳशो वि॑व॒र्तो᳖ऽष्टाचत्वारि॒ꣳशो ध॒र्त्रं च॑तुष्टो॒मः ॥२३ ॥

मन्त्र उच्चारण
पद पाठ

आ॒शुः। त्रि॒वृदिति॑ त्रि॒ऽवृत्। भा॒न्तः। प॒ञ्च॒द॒श इति॑ पञ्चऽद॒शः। व्यो॒मेति॒ विऽओ॑मा। स॒प्त॒द॒श इति॑ सप्तऽद॒शः। ध॒रुणः॑। ए॒क॒वि॒ꣳश इत्ये॑कऽवि॒ꣳशः। प्रतू॑र्त्ति॒रिति॒ प्रऽतू॑र्त्तिः। अ॒ष्टा॒द॒श इत्य॑ष्टाऽद॒शः। तपः॑। न॒व॒द॒श इति॑ नवऽद॒शः। अ॒भी॒व॒र्त्तः। अ॒भी॒व॒र्त्त इत्य॑भिऽव॒र्त्तः। स॒वि॒ꣳश इति॑ सऽवि॒ꣳशः। वर्चः॑। द्वा॒वि॒ꣳशः। स॒म्भर॑ण॒ इति॑ स॒म्ऽभर॑णः। त्र॒यो॒वि॒ꣳश इति॑ त्रयःऽविं॒शः। योनिः॑। च॒तु॒र्वि॒ꣳशः इति॑ चतुःऽविं॒शः। गर्भाः॑। प॒ञ्च॒वि॒ꣳश इति॑ पञ्चऽवि॒ꣳशः। ओजः॑। त्रि॒ण॒वः। त्रि॒न॒व॒ इति॑ त्रिऽन॒वः। क्रतुः॑। ए॒क॒त्रि॒ꣳश इत्ये॑कऽत्रि॒ꣳशः। प्र॒ति॒ष्ठा। प्र॒ति॒स्थेति॑ प्रति॒ऽस्था। त्र॒य॒स्त्रि॒ꣳश इति॑ त्रयःऽत्रि॒ꣳशः। ब्र॒ध्नस्य॑। वि॒ष्टप॑म्। च॒तु॒स्त्रि॒ꣳश इति॑ चतुःऽत्रि॒ꣳशः। नाकः॑। ष॒ट्त्रि॒ꣳश इति॑ षट्ऽत्रि॒ꣳशः। वि॒व॒र्त्त इति॑ विऽव॒र्त्तः। अ॒ष्टा॒च॒त्वा॒रि॒ꣳश इत्य॑ष्टाऽच॒त्वा॒रि॒ꣳशः। ध॒र्त्रम्। च॒तु॒ष्टो॒मः। च॒तु॒स्तो॒म इति॑ चतुःऽस्तो॒मः ॥२३ ॥

यजुर्वेद » अध्याय:14» मन्त्र:23


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

अब संवत्सर कैसा है, यह विषय अगने मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग इस वर्त्तमान संवत् में (आशुः) शीघ्र (त्रिवृत्) शीत और उष्ण के बीच वर्त्तमान (भान्तः) प्रकाश (पञ्चदशः) पन्द्रह प्रकार का (व्योमा) आकाश के समान विस्तारयुक्त (सप्तदशः) सत्रह प्रकार का (धरुणः) धारण गुण (एकविंशः) इक्कीस प्रकार का (प्रतूर्त्तिः) शीघ्र गतिवाला (अष्टादशः) अठारह प्रकार का (तपः) सन्तापी गुण (नवदशः) उन्नीस प्रकार का (अभीवर्त्तः) सम्मुख वर्त्तनेवाला गुण (सविंशः) इक्कीस प्रकार की (वर्चः) दीप्ति (द्वाविंशः) बाईस प्रकार का (सम्भरणः) अच्छे प्रकार धारणकारक गुण (त्रयोविंशः) तेईस प्रकार का (योनिः) संयोग-वियोगकारी गुण (चतुर्विंशः) चौबीस प्रकार की (गर्भाः) गर्भ धारण की शक्ति (पञ्चविंशः) पच्चीस प्रकार का (ओजः) पराक्रम (त्रिणवः) सत्ताईस प्रकार का (क्रतुः) कर्म्म वा बुद्धि (एकत्रिंशः) एकतीस प्रकार की (प्रतिष्ठा) सब की स्थिति का निमित्त क्रिया (त्रयस्त्रिंशः) तेंतीस प्रकार की (ब्रध्नस्य) बड़े ईश्वर की (विष्टपम्) व्याप्ति (चतुस्त्रिंशः) चौंतीस प्रकार का (नाकः) आनन्द (षट्त्रिंशः) छत्तीस प्रकार का (विवर्त्तः) विविध प्रकार से वर्त्तन का आधार (अष्टाचत्वारिंशः) अड़तालीस प्रकार का (धर्त्रम्) धारण और (चतुष्टोमः) चार स्तुतियों का आधार है, उस को संवत्सर जानो ॥२३ ॥
भावार्थभाषाः - जिस संवत्सर के सम्बन्धी भूत, भविष्यत् और वर्तमान काल आदि अवयव हैं, उस के सम्बन्ध से ही से सब संसार के व्यवहार होते हैं, ऐसा तुम लोग जानो ॥२३ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

अथ संवत्सर कीदृशोऽस्तीत्याह ॥

अन्वय:

(आशुः) (त्रिवृत्) शीते चोष्णो द्वयोर्मध्ये च वर्त्तते सः (भान्तः) प्रकाशः (पञ्चदशः) पञ्चदशानां पूरणः पञ्चदशविधः (व्योमा) व्योमवद् विस्तृतः (सप्तदशः) सप्तदशविधः (धरुणः) धारणगुणः (एकविंशः) एकविंशतिधा (प्रतूर्त्तिः) शीघ्रगतिः (अष्टादशः) अष्टादशधा (तपः) संतापो गुणः (नवदशः) नवदशधा (अभीवर्त्तः) य आभिमुख्ये वर्त्तते सः (सविंशः) विंशत्या सह वर्त्तमानः (वर्चः) दीप्तिः (द्वाविंशः) द्वाविंशतिधा (सम्भरणः) सम्यग् धारकः (त्रयोविंशः) त्रयोविंशतिधा (योनिः) संयोजको वियोजको गुणः (चतुर्विंशः) चतुर्विंशतिधा (गर्भाः) गर्भधारणशक्तयः (पञ्चविंशः) पञ्चविंशतिधा (ओजः) पराक्रमः (त्रिणवः) सप्तविंशतिधा (क्रतुः) कर्म प्रज्ञा वा (एकत्रिंशः) एकत्रिंशद्धा (प्रतिष्ठा) प्रतिष्ठन्ति यस्यां सा (त्रयस्त्रिंशः) त्रयस्त्रिंशत् प्रकारः (ब्रध्नस्य) महतः (विष्टपम्) व्याप्तिम्। अत्र विष् धातोर्बाहुलकादौणादिकस्तपः प्रत्ययः (चतुस्त्रिंशः) चतुस्त्रिंशद्विधः (नाकः) आनन्दः (षट्त्रिंशः) षट्त्रिंशत्प्रकारः (विवर्त्तः) विविधं वर्तते यस्मिन् सः (अष्टाचत्वारिंशः) अष्टाचत्वारिंशद्धा (धर्त्रम्) धारणम् (चतुष्टोमः) चत्वारः स्तोमाः स्तुतयो यस्मिन् संवत्सरे सः। [अयं मन्त्रः शत०८.४.१.९ व्याख्यातः] ॥२३ ॥

पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं यस्मिन् संवत्सर आशुस्त्रिवृद् भान्तः पञ्चदशो व्योमा सप्तदशो धरुण एकविंशः प्रतूर्त्तिरष्टादशस्तपो नवदशोऽभीवर्त्तः सविंशो वर्चो द्वाविंशः संभरणस्त्रयोविंशो योनिश्चतुर्विंशो गर्भाः पञ्चविंश ओजस्त्रिणवः क्रतुरेकत्रिंशः प्रतिष्ठा त्रयस्त्रिंशो ब्रध्नस्य विष्टपं चतुस्त्रिंशो नाकः षट्त्रिंशो विवर्त्तोऽष्टाचत्वारिंशो धर्त्रं चतुष्टोमोऽस्ति, तं संवत्सरं विजानीत ॥२३ ॥
भावार्थभाषाः - यस्य संवत्सरस्य सम्बन्धिनो भूतभविष्यद्वर्त्तमानादयोऽवयवाः सन्ति तस्य सम्बन्धादेते व्यवहारा भवन्तीति यूयं बुध्यध्वम् ॥२३ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - भूत, भविष्य, वर्तमान हे काळ संवत्सराचे अवयव आहेत. त्यामुळेच या जगातील सर्व व्यवहार होतात हे माणसांनी जाणावे.